📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः ४
Page 1
Download 📥
________________ राजोवाच- श्रीमद्भगवद्भादरायणप्रणीतम् श्रीमद्भागवतम् पञ्चमस्कन्धः ॥ अथ प्रथमोऽध्यायः ॥ ॐ नमो भगवते वासुदेवाय प्रियव्रतो भागवत आत्मारामः कथं मुने । गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः || १ || श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः विहितो यस्य यो धर्मो विष्णुना प्रभविष्णुना । तेन मुक्तिर्भवेत्तस्य तं गुरुर्वेद सर्ववित् ॥ इति प्रवृत्तसंहितायाम् । श्री यादवार्यविरचिता भागवतप्रकाशिका वेदव्यासं प्रणम्याथ मध्वं वेदेशसद्गुरून् ॥ पञ्चमस्कंधतात्पर्यं व्याकरिष्ये यथामति ॥ १ ॥ प्रकाशिका - यो नारदादात्मविद्यामधिगम्य पुनर्महीं भुक्त्वेति चतुर्थस्कंधान्तोक्तं नारदोपदेशा- नन्तरमपि प्रियव्रतकृतं महीभोगं श्रुत्वा राजा पृच्छति । प्रियव्रत इति । भागवतः स्वतो भगवद्भक्तो नारदोपदेशादात्मारामश्च भूत्वा कथं गृहेऽरमत । आत्मरमणगृहरमणयोः परस्परविरुद्धत्वेनेदम- संभावितमित्याशयः । ननु गृहासक्तेः कामोपभोगहेतुत्वात् आत्मारामत्वं परित्यज्य गृहासक्तिरेव तेन कृतातो न विरोधः इत्यत आह । यन्मूल इति । यहं मूलं यस्य सो यन्मूल: कर्मबन्ध: पुन: पुन: संसारापादककर्मार्जनं, तेन च पराभवः पुनः पुनर्दुःखानुभवः । तथा च तदर्थमात्मारामत्वं न त्याज्यमित्याशयः ॥ १ ॥